पूर्वम्: ६।३।८०
अनन्तरम्: ६।३।८२
 
सूत्रम्
वोपसर्जनस्य॥ ६।३।८१
काशिका-वृत्तिः
वा उपसर्जनस्य ६।३।८२

उपसर्जनसर्वावयवः समासः उपसर्जनम्। यस्य सर्वे ऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर् गृह्यते। तदवयवस्य सहशब्दस्य वा स इत्ययम् आदेशो भवति। सपुत्रः, सहपुत्रः। सच्छात्रः, सहच्छात्रः। उपसर्जनस्य इति किम्? सहयुध्वा। सहकृत्वा। सहकृत्वप्रियः, प्रियसहकृत्वा इति इह बहुव्रीहौ यदुत्तरपदं तत् परः सहशब्दो न भवति इति सभावो न भवति।
न्यासः
वोपसर्जनस्य। , ६।३।८१

यदि "उपसर्जनस्य" इत्येतत्? सहशब्दसय विशेषणं स्यात्? तदाऽतिप्रसङ्गः स्यात्()। विशेषानुपादानादिहापि स्यात्()--सहयुध्वा, सहकृत्वेति। अत्रापि सहशब्द उपसर्जनम्(); "उपपदमतिङ्()" २।२।१९ इति प्रथमा निर्देशात्(), अप्राधान्याच्च। अनर्थकञ्च विशेषणं स्यात्(); सर्वत्रैव हि समासे सहशब्दस्योपसर्जनत्वात्()। समासश्चेहोत्तरपदेन सन्निधापितः, यस्मात्? समासे ह्रुत्तरपदं भवति, अतसतस्यैवेदं विशेषणमिति मन्यमान आह--"उपसरजनसर्वावयवः" इति। उपसर्जनं सर्वोऽवयवो यस्य स तथोक्तः; अवयवधर्मेण समुदायधर्मस्य तथा निर्देशात्(), यथा--आढ()मिदं नगरमिति। यदि कस्यचित्कश्चिदुपसरजनमवयवः कश्चिदनुपसर्जनं सोऽप्युपसर्जनमित्युच्यते, तदाऽतिप्रसङ्गदोषस्तदवस्थः स्यादिति सर्वग्रहणम्()। कः पुनरसौ सर्वोपसजेनावयवः समासः? बहुव्रीहिः। ननु द्वन्द्वोऽप्युपसर्जनसर्वावयव एव, तस्यापि ग्रहणं प्राप्नोति? नैष दोषः; न हि सहपदेन तु गुणभावस्तत्रैव प्रयुज्यते। अथ वा--उभयगतिरिह शास्त्रे सम्भवतति लौकिकमप्युपसर्जनमिह गृह्रते। तेन शास्त्रीयोपसर्जनेन लौकिकेन चोपसर्जनीभूताः सर्वोऽवयव यस्य स एवोपसर्जनशब्देन विवक्षित इति विज्ञायते। न चैवंविधो द्वन्द्वः। तस्य ह्रवयवानां शास्त्रीयेणैवोपसर्जनेनोपसर्जत्वम्(), न तु लौकिकेन। बहुव्रीहिस्तु लौकिकेनापि। तस्मात्? तस्यैवोपसर्जनग्रहणेन ग्रहणम्()। "तदवयवस्य" इति। अनेनोपसर्जनस्येत्येषाऽवयवषष्ठीति दरिशयति। "सपुत्रः" इति। पूर्ववद्बहुवरीहिः। "सहयुष्वा, सहकृत्वा" इति। तत्पुरुषोऽयमुत्तरपदार्थप्रधानः। अथेह कस्मान्न भवति--सहकृत्वप्रियः, प्रियसहकृत्वेऽति, भवति ह्रत्रापि सहशब्दो बहुव्रीह्रवयवः? इत्याह--"इह" इत्यादि। "वा प्रियस्य" (वा।११४) इति प्रियशब्दस्य विकल्पेन पूर्वनिपतः। उत्तरपदाधिकारादिह बहुव्रीह्राश्रयणाच्च बहुव्रीहौ यदुत्तरपदं तत्? परं यस्मात्? सहशब्दात्? तसय सभावेन भवितव्यम्()। न चेह बहुव्रीहौ यदुत्तरपदं तत्? सहशब्दात्? परम्(), शब्दान्तरेण व्यवधानादिति न भवति सभावः॥
बाल-मनोरमा
वोपसर्जस्य ८४०, ६।३।८१

वोपसर्जनस्य। "उत्तरपदे" इत्यधिकृतम्। "सहस्य सः संज्ञाया"मित्यतः "सहस्य स" इत्यनुवर्तते। उपसर्जनमस्यास्तीत्युपसर्जनः, मत्वर्थे अर्शाअद्यच्। उत्तरपदाक्षिप्तसमासो विशेष्यम्। उपसर्जवनतः समासस्येत्यर्थः। यद्यपि सर्वेषामपि समासानां कश्चिदवयव उपसर्जनमेव, तथापि सामथ्र्यादुपसर्जनसर्वावयवकस्येति लभ्यते। तथाच उपसर्जनस्येत्यनेन बहुव्रीहेरिति लब्धम्। अवयवषष्ठ()एषा। तदाह--बहुव्रीहेरवयवस्येत्यादिना। बहुव्रीहेरिति किम्?। सहयुध्वा। "राजनि युधि कृञः, "सहे चे"ति क्वनिप्। उपपदसमासः। अबहुव्रीह्रवयवस्य सहस्य सत्वं न। सुपुत्र इति। सभावे रूपम्। पुत्रेण युगपदागत इत्यर्थः। प्रायिकमिति। इतिशब्दादिदं लभ्यते। "विभाषा सपूर्वस्ये"त्यादिनिर्देशाच्चेति भावः। सकर्मक इति। विद्यमानकर्मक इत्यर्थः। अत्र तुल्ययोगाऽभावेऽपि सहस्य सः।

तत्त्व-बोधिनी
वोपसर्जनस्य ७३७, ६।३।८१

वोपसर्जनस्य। उपसर्जनस्येति न सहस्य विशेषणम्, अव्यभिचारात्। किं तूत्तरपदेन संनिधापितस्य समासस्य। तच्चावयवद्वारकम्। उपसर्जनसर्वावयवकस्य समासस्येत्येर्थः। तदेतत्फलितमाह---बहुव्रीहीति। तेनेह न,--सहयुध्वा। सहकृत्वा। राजनि युधि कृञः "सहे चे"ति क्वनिपि उपपदसमासाविमौ। "सहस्य सः संज्ञाया"मित्यतोऽनुवर्तनादाह--सहस्य सः स्यादिति। प्रायिकमिति। "विभाषा सपूर्वस्ये"त्यादिनिर्दिशादिति भावः। सकर्मक इति। विद्यमानकर्मक इत्यर्थः।

प्रकृत्याशिषि। कथं तर्हि "यजमानस्य सपुत्रस्य सभ्रातृकस्य सपरिवारस्यायुरारोग्यै()आर्याभिवृद्धिरस्तु" इत्यादिप्रयोगाः सङ्गच्छन्त इति चेत्। उच्यते----"ऐ()आर्याभिवृद्धिरस्त्विति भवन्तोऽनुगृह्णन्तु" इत्येतत्प्रार्थनावाक्यं, न त्वाशीर्वचनम्। यच्चाशीर्वचनं "तथास्तु"इति , तत्र हि सपुत्रकेत्यादि न प्रयुज्यत एवेति न काप्यनुपपत्तिः।